हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Sri Ganesha Hrudayam – श्री गणेश हृदयम्
शिव उवाच ।
गणेशहृदयं वक्ष्ये सर्वसिद्धिप्रदायकम् ।
साधकाय महाभागाः शीघ्रेण शान्तिदं परम् ॥ 1 ॥
अस्य श्रीगणेशहृदयस्तोत्रमन्त्रस्य शम्भुरृषिः । नानाविधानि छन्दांसि । श्रीमत्स्वानन्देशो गणेशो देवता । गमिति बीजम् । ज्ञानात्मिका शक्तिः । नादः कीलकम् ।
श्रीगणपतिप्रीत्यर्थमभीष्टसिद्ध्यर्थं जपे विनियोगः । गां गीमिति न्यासः ।
ध्यानम् ।
सिन्दूराभं त्रिनेत्रं पृथुतरजठरं रक्तवस्त्रावृतं तं
पाशं चैवाङ्कुशं वै रदनमभयदं पाणिभिः सन्दधानम् ॥
सिद्ध्या बुद्ध्या च श्लिष्टं गजवदनमहं चिन्तये ह्येकदन्तं
नानाभूषाभिरामं निजजनसुखदं नाभिशेषं गणेशम् ॥ 1 ॥
ओं गणेशमेकदन्तं च चिन्तामणिं विनायकम् ।
ढुण्ढिराजं मयूरेशं लम्बोदरं गजाननम् ॥ 1 ॥
हेरम्बं वक्रतुण्डं च ज्येष्ठराजं निजस्थितम् ।
आशापूरं तु वरदं विकटं धरणीधरम् ॥ 2 ॥
सिद्धिबुद्धिपतिं वन्दे ब्रह्मणस्पतिसञ्ज्ञितम् ।
माङ्गल्येशं सर्वपूज्यं विघ्नानां नायकं परम् ॥ 3 ॥
एकविंशति नामानि गणेशस्य महात्मनः ।
अर्थेन सम्यूतान्येव हृदयं परिकीर्तितम् ॥ 4 ॥
गकाररूपं विविधं चराचरं
णकारगं ब्रह्म तथा परात्परम् ।
तयोः स्थितास्तस्य गणाः प्रकीर्तिता
गणेशमेकं प्रणमाम्यहं परम् ॥ 5 ॥
मायास्वरूपं तु सदैकवाचकं
दन्तः परो मायिकरूपधारकः ।
योगे तयोरेकरदं सुमानिनि
धीस्थं नतोऽहं जनभक्तिलालसम् ॥ 6 ॥
चित्तप्रकाशं विविधेषु संस्थं
लेपावलेपादिविवर्जितं च ।
भोगैर्विहीनं त्वथ भोगकारकं
चिन्तामणिं तं प्रणमामि नित्यम् ॥ 7 ॥
विनायकं नायकवर्जितं प्रिये
विशेषतो नायकमीश्वरात्मनाम् ।
निरङ्कुशं तं प्रणमामि सर्वदं
सदात्मकं भावयुतेन चेतसा ॥ 8 ॥
वेदाः पुराणानि महेश्वरादिकाः
शास्त्राणि योगीश्वरदेवमानवाः ।
नागासुरा ब्रह्मगणाश्च जन्तवो
ढुण्ढन्ति वन्दे त्वथ ढुण्ढिराजकम् ॥ 9 ॥
मायार्थवाच्यो मयूरप्रभावो
नानाभ्रमार्थं प्रकरोति तेन ।
तस्मान्मयूरेशमथो वदन्ति
नमामि मायापतिमासमन्तात् ॥ 10 ॥
यस्योदराद्विश्वमिदं प्रसूतं
ब्रह्माणि तद्वज्जठरे स्थितानि ।
आनन्त्यरूपं जठरं हि यस्य
लम्बोदरं तं प्रणतोऽस्मि नित्यम् ॥ 11 ॥
जगद्गलाधो गणनायकस्य
गजात्मकं ब्रह्म शिरः परेशम् ।
तयोश्च योगे प्रवदन्ति सर्वे
गजाननं तं प्रणमामि नित्यम् ॥ 12 ॥
दीनार्थवाच्यस्त्वथ हेर्जगच्च
ब्रह्मार्थवाच्यो निगमेषु रम्बः ।
तत्पालकत्वाच्च तयोः प्रयोगे
हेरम्बमेकं प्रणमामि नित्यम् ॥ 13 ॥
विश्वात्मकं यस्य शरीरमेकं
तस्माच्च वक्त्रं परमात्मरूपम् ।
तुण्डं तदेवं हि तयोः प्रयोगे
तं वक्रतुण्डं प्रणमामि नित्यम् ॥ 14 ॥
मातापिताऽयं जगतां परेषां
तस्यापि माताजनकादिकं न ।
श्रेष्ठं वदन्ति निगमाः परेशं
तं ज्येष्ठराजं प्रणमामि नित्यम् ॥ 15 ॥
नाना चतुःस्थं विविधात्मकेन
सम्योगरूपेण निजस्वरूपम् ।
पूर्यस्य सा पूर्णसमाधिरूपा
स्वानन्दनाथं प्रणमामि चातः ॥ 16 ॥
मनोरथान् पूरयतीह गङ्गे
चराचराणां जगतां परेषाम् ।
अतो गणेशं प्रवदन्ति चाशा-
-प्रपूरकं तं प्रणमामि नित्यम् ॥ 17 ॥
वरैः समस्थापितमेव सर्वं
विश्वं तथा ब्रह्मविहारिणा च ।
अतः परं विप्रमुखा वदन्ति
वरप्रदं तं वरदं नतोऽस्मि ॥ 18 ॥
मायामयं सर्वमिदं विभाति
मिथ्यास्वरूपं भ्रमदायकं च ।
तस्मात्परं ब्रह्म वदन्ति सत्य-
-मेनं परेशं विकटं नमामि ॥ 19 ॥
चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो
नानाविधा योगिभिरेव गङ्गे ।
तासां सदा धारक एष वन्दे
चाहं हि धरणीधरमादिभूतम् ॥ 20 ॥
विश्वात्मिका ब्रह्ममयी हि बुद्धिः
तस्या विमोहप्रदिका च सिद्धिः ।
ताभ्यां सदा खेलति योगनाथः
तं सिद्धिबुद्धीशमथो नमामि ॥ 21 ॥
असत्यसत्साम्यतुरीयनैज-
-गनिवृत्तिब्रह्माणि विरच्य खेलकः ।
सदा स्वयं योगमयेन भाति
तमानतोऽहं त्वथ ब्रह्मणस्पतिम् ॥ 22 ॥
अमङ्गलं विश्वमिदं सहात्मभिः
अयोगसम्योगयुतं प्रणश्वरम् ।
ततः परं मङ्गलरूपधारकं
नमामि माङ्गल्यपतिं सुशान्तिदम् ॥ 23 ॥
सर्वत्रमान्यं सकलावभासकं
सुज्ञैः शुभादावशुभादिपूजितम् ।
पूज्यं न तस्मान्निगमादिसम्मतं
तं सर्वपूज्यं प्रणतोऽस्मि नित्यम् ॥ 24 ॥
भुक्तिं च मुक्तिं च ददाति तुष्टो
यो विघ्नहा भक्तिप्रियो निजेभ्यः ।
भक्त्या विहीनाय ददाति विघ्नान्
तं विघ्नराजं प्रणमामि नित्यम् ॥ 25 ॥
नामार्थयुक्तं कथितं प्रिये ते
विघ्नेश्वरस्यैव परं रहस्यम् ।
सप्तत्रिनाम्नां हृदयं नरो यो
ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥ 26 ॥
इति श्रीमुद्गलपुराणे गणेशहृदय स्तोत्रम् ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.